संस्कृतदिवसस्योपलक्ष्ये संस्कृत-विभागेन “संस्कृतश्लोकपाठ- संस्कृतगीतप्रतियोगिता” तथा “वर्तमानभविष्ययो: परिदृश्ये संस्कृतभाषाया: प्रासङ्गिकता” चेति विषये विस्तृतव्याख्यानस्य आयोजनं कृतम्

प्राचार्या प्रो. (डॉ.) अनीता कौशल महाभागाया: कुशलनिर्देशने संरक्षणे च संस्कृतविभागस्य संस्कृत-साहित्य-समितेश्च संयुक्ततत्त्वावधाने पोस्ट ग्रेजुएट गवर्नमेंट कॉलेज फॉर गर्ल्स, सेक्टर-11, चण्डीगढस्य संस्कृतविभागे 11.09.2023 इति दिनाङ्के मध्याह्न: 01.00 वादनतः 02.30 वादनपर्यन्तं संस्कृतदिवसस्य (श्रावणशुक्लपूर्णिमायाः) उपलक्ष्ये  “वर्तमानभविष्ययो: परिदृश्ये संस्कृतभाषाया: प्रासङ्गिकता” इति विषये विस्तृतव्याख्यानं “संस्कृतश्लोकपाठ-संस्कृतगीतप्रतियोगिता” च सम्पन्ना अभवन्।

कार्यक्रमस्यारम्भः सुश्री स्मृति, सुश्री मनवीर कौर, सुश्री शालिनी, सुश्री भावना, सुश्री मानसी, सुश्री तमन्ना इति छात्राणांवैदिकस्वस्तिवाचनद्वारा तथा सुश्री हरमनप्रीत कौर इत्यस्या: सरस्वतीस्तुतिद्वारा अभवत्। मुख्यवक्तु:प्रो.वीरेन्द्र कुमार अलंकार(अध्यक्ष:, संस्कृतविभाग:, पंजाब-विश्वविद्यालय:, चण्डीगढ़म्) इत्यस्य स्वागतं  अङ्गवस्त्रेण सह श्रीमद्भगवद्गीतापुस्तकप्रदानेनअभवत्। स्वागतंपोस्ट ग्रेजुएट गवर्नमेंट कॉलेज फॉर गर्ल्स, सेक्टर-11, चण्डीगढ़ इत्यस्य प्राचार्या प्रो. (डॉ.)अनीता कौशल तथासमाजशास्त्रविभागस्य अध्यक्षा प्रो. रेनू त्रिखा एवंसंस्कृतविभागस्यअध्यक्ष: डॉ. चन्दन लाल गुप्ता इत्यादिभि: विहितम्।स्वागतभाषणं संस्कृतविभागाध्यक्षेण दत्तः।मुख्यवक्तु: परिचय: स्नातकद्वितीयवर्षस्यछात्रासुश्री स्मृतिद्वारा जात:।

मुख्यवक्त्रासंस्कृतभाषाध्ययनस्य विविधेषुआयामेषु चर्चा कृता। तेनोक्तं यत् वर्तमानभविष्ययो: परिदृश्ये संस्कृतभाषाया: प्रासङ्गिकता सदैव सुप्रतिष्ठिता भविष्यति। संस्कृतभाषा सर्वासां भारतीयभाषाणां मूलाधाराअस्ति। भारतस्य सर्वं ज्ञानं विज्ञानं धर्म: संस्कृति: परम्पराश्च संस्कृते सुरक्षिता: वर्तन्ते। अग्रे तेनोक्तं यत् सर्वासु भारतीयभाषासु परस्परं सामञ्जस्यं वर्तते, इयं भाषा सर्वासां भाषाणामध्ययने ज्ञाने च सहायिका अस्ति। इयं भाषा सर्वासांभाषाणां शब्दानां मूलभावं मूलार्थञ्च अवबोधने सहायिका अस्ति। संस्कृतभाषाया अध्ययने निरुक्तसदृशकोशग्रन्थाणां महन्महत्त्वं वर्तते।संस्कृताध्ययनेन वृत्त्योपार्जनक्षेत्रे विविधाअवसरा: वर्तन्ते इति विषये छात्रान् परिचायित:।

व्याख्यानस्य पश्चात् संस्कृतश्लोकपाठसंस्कृतगीतप्रतियोगिता सम्पन्नाभवत्। तत्र डॉ. सुषमा अलंकार, (अध्यक्षा, संस्कृत-विभाग:, डीएवीपीजी कॉलेज, सेक्टर-10, चण्डीगढ़म् ) श्री विजय भारद्वाज(संस्कृत-विभाग:, पंजाबविश्वविद्यालय:, चण्डीगढ़म्)चनिर्णायकौ स्त:। प्रतियोगितायां चतुर्दश (14) छात्रा: प्रतिभागिन्य: आसन्। अस्यां छात्राभि: स्पष्टोच्चारणै: सह संगीतमयानि कर्णानन्दकराणि संस्कृतगीतानि संस्कृतश्लोका:  स्तोत्राणि च प्रस्तुतकृतानि। अस्यां प्रतियोगितायां प्रथमस्थानं सुश्री हरमनप्रीत कौर (स्नातकप्रथमवर्ष:), द्वितीयस्थानं सुश्री स्मृति (स्नातकद्वितीयवर्ष:), तृतीयस्थानं सुश्री सिमरन कौर (स्नातकप्रथमवर्ष:) च अलभन्त।प्रो. वीरेन्द्र कुमार अलंकार, प्रो. रेनू त्रिखा, डॉ. सुषमा अलंकार, श्री विजय भारद्वाज, डॉ. चन्दन लाल गुप्ताचेत्यतिथिभि:गुरुजनैश्च विजेत्र्य: छात्रा: विजयप्रतीकै: सम्मानिताः, प्रतिभागिताप्राप्ता: छात्रा: प्रशंसाचिह्नद्वारा उत्साहवर्धिताश्च।

कार्यक्रमे अन्यविभागेभ्य: महाविद्यालयेभ्यश्च शिक्षका:  छात्राश्च उपस्थिता आसन्।पीजीजीसी-11, चण्डीगढ़स्य भौतिकविज्ञानविभागात् डॉ. राजेश शर्मा, रक्षासामरिकाध्ययनविभागात्  डॉ. संजीव कुमार, मनोविज्ञानविभात् डॉ. दिव्या मोंगा  कार्यक्रमे समुपस्थिता आसन्।पीजीजीसीजी-11, चण्डीगढ़स्य समाजशास्त्रविभागस्य अध्यक्षा प्रो. रेनू त्रिखा, इतिहासविभागस्य अध्यक्षा डॉ. आशा किरण, दर्शनशास्त्रविभास्य अध्यक्ष: डॉ. अम्बुज शर्मा,  फ्रेंचविभागस्य अध्यक्षा डॉ.निधि शर्मा, पंजाबीविभागस्य अध्यक्ष: डॉ. जसपाल सिंह, हिन्दीविभागस्य अध्यक्ष: डॉ. मोहन लाल जाट तथाडॉ. मनोज कुमार, डॉ. वीनत, डॉ. प्रकाश चन्द्र, डॉ. गुरदीप कौर, डॉ. मीना रानी, डॉ. मीनू इत्यादयः कार्यक्रमे समुपस्थिता आसन्।

कार्यक्रमे शताधिका: (100)जनाः समुपस्थिताआसन्। समस्ता: कार्यक्रमसम्बन्धीव्यवस्था: छात्राभि: सम्पादिता:। कार्यक्रमोऽयंविभागस्य छात्राणां कृते ज्ञानवर्धकं रोचकं मार्गनिर्देशकञ्च आसीत्। कार्यक्रमस्य संचालनं स्नातकतृतीयवर्षस्य छात्रा सुश्री अकांक्षा कृतवती।कार्यक्रमे उपस्थितजनानां धन्यवादज्ञापनं डॉ. चन्दन लाल गुप्ता द्वारा विहितम्।